My Meditations
Home
About

Saraswathi-Suprabhatham-श्रीवासरसरस्वतीसुप्रभातम्

Saraswathi-Suprabhatham ॥ श्रीवासरसरस्वतीसुप्रभातम् ॥

उत्तिष्ठोत्तिष्ठ! हे वाणि! उत्तिष्ठ! हंसिनीध्वजे।

उत्तिष्ठ! ब्रह्मणो राज्ञि! त्रैलोक्यं मङ्गलं कुरु॥ १॥

जागृहि त्वं महादेवि! जागृहि त्वं सरस्वति!। जागृहि त्वं चतुर्वेदि! लोकरक्षाविधिं कुरु!॥ २॥

लोकाः सर्वे शुचाम्भोधौ निमग्नास्तान् समुद्धर!
त्वमेवैका स्वयंव्यक्ता समर्था सिकताभवा!॥ ३||

श्रीवाणि! सर्वजगतां जननि! प्रमोदे!, जिह्वाग्रवासिनि मनोहरि वेधसस्त्वम्, वाञ्छाप्रदायिनि! समाश्रितभक्तकोटेः, श्रीपद्मजातदयिते! तव सुप्रभातम्!॥ ४॥

तव सुप्रभातमखिलार्थदायिनि! कमनीयगात्रि! करुणातरङ्गिणि! कमलायताक्षि! वदनेन्दुमण्डले ! परमेष्ठिदेवि! सुरसुन्दरीसुते! ॥ ॥ ५॥

श्रीव्यासपूजितपदाम्बुजकोमलाङ्गि कार्तस्वराञ्चितविशेषविभूषिताङ्गि! प्रालेयमौक्तिकशशाङ्कसुशोभिताङ्गि श्रीवाणि! वासरपुरे! तव सुप्रभातम्॥ ६॥

श्रीगौतमीतटसमीकृतसैकतेन व्यासेन सेचनसमाहित श्रीकरैश्च । श्रीषोडशी मनुजसेन निरूपिता त्वं श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ७॥

वल्लीत्रयान्तरसुचक्रसमर्चनेन सुचित्र श्रीमन्त्रवाग्भवसमुच्चय कूटदेशे! । व्यक्तासि रक्षितुमितः स्वयमेव देवि । श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ८॥

श्रीमन्त्रराजतनुबीजविराजमानां
ओङ्कारतत्त्वविशदाय गृहीतमूर्तिम्! । त्वां पण्डिता भुवि भजन्ति सरस्वतीति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ९॥

ओङ्कारपञ्जरशुकीं निगमान्त वेद्यां!
ह्रीं मातृकावरण श्रींयुत ब्लूञ्च सौरैम् । क्लीं सौश्च सैङ्गतदशाक्षरदेवि वन्दे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १०॥

संसारतारकमहामनुबीजवर्णां मायामयीं गुणमयीं सगुणोद्भवां त्वाम् । शक्तित्रयात्मकचितीति जपन्ति बुद्धाः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ११॥

सौन्दर्यवारधितरङ्ग परम्परायां वेलानिरूपकमनोहरदेहदीपे ।
सर्वोपमाननिचयस्य समोपमेये
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १२॥

सङ्गीतवाङ्मयकलाप्तसुहासनेत्रि!
रागैश्च षोडशसहस्रविधैश्च गीते ।
आनन्ददायकरसैर्खनिभिश्च पूर्णे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १३॥

सौभाग्यदे! त्वमिह विद्रुमवर्णलक्ष्मीः
विद्याप्रदे! त्वमिह धौतसुधांशुवाणि । शत्रुञ्जये! त्वमिह नीलतमालकाळी श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १४॥

श्रीचक्रमन्दिरविहारिणि! राज्यलक्ष्मि! राकासुधाकरशिरोमणि! नीलवेणि! । राजीवलोचनशिरीषसुमाग्रनासे । श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १५॥

कौमारशैलशिखरे सुखवासयोग्ये सूर्येन्द्रविष्णुशिवपुत्रगणेशमुख्यैः । वासिष्ठवारुणिवरैश्च सुपूततीर्थे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १६॥

अष्टाब्जपुञ्जितविशेषवयोविलासे!
बिम्बाधराञ्चितसुहासविलासरेखे/नेत्रे! । कारुण्यपूरितदृगञ्चलरम्यमूर्ते श्रीवाणि! वासरपुरे! तवसुप्रभातम्! ॥ १७॥

औदुम्बराख्यतरुमूलपवित्रदेशे दत्तावधूतयतिरत्र गृहीतदीक्षः । जप्त्वा त्वदीयशुभनाम बभूव सिद्धः श्रीवाणि ! वासरपुरे! तव सुप्रभातम्! ॥ १८॥

प्रत्यूषरञ्जितनवार्कमरीचिपुञ्जाः प्रान्तप्रशान्तप्रकृतिं रमणीयदृश्याम् । सम्भावयन्ति च विरच्य सरस्वतीह
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १९॥

नित्यं तवार्चकसुधीश्च मुखारविन्दं श्रीखण्डचूर्णहरितालसुगन्धतीर्थैः । ब्राह्मे मुहूर्तसमये रचनां करोति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ! २०॥

सप्तस्वराञ्चितमनोहरनादयुक्तैः प्राभातकालिकसुनादविनोदरागैः । गायन्ति कोकिलमयूरमरालचक्राः श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २१॥

दीक्षाविधाननियमानुसरेण भक्ताः
गत्वा पुरे भवति! देहि घृणाक्षभिक्षम् । याचन्ति तानिति गृहस्थतदात्मरूपान् श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २२॥

योगीशमानससरोवरराजहंसि! भक्तालिमानससरोजविहारभृङ्गि! । श्रीचक्रषोडशमहामनुबीजवासे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २३॥ ज्ञानात्मिके! विविधवस्तुविवेकरूपे! इच्छात्मिके! भगवदात्मसमानरूपे! । यत्नात्मिके! परमधाम समात्तरूपे श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २४॥

शिञ्जानकङ्कणनिनादविनोदपाणे! वीणाविवादनविजृम्भितपूर्णरागे! । विन्यस्तहस्तभ्रुकुटीचुबुकाक्षिवत्से श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २५॥

कूजन्ति देवि! चरणायुधपक्षिसङ्घाः! गायन्ति देवि! तव मागधवन्दिवृन्दाः । अर्चन्ति देवि! भुवि वैदिककाव्यशिष्याः श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २६॥

दिव्यापगाविकसिताच्छसुवर्णपुष्पाः हस्ताश्च मन्त्रपठनानुरणेन देवाः । तिष्ठन्ति देवि! तव मन्दिरमुख्यमार्गे । श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ २७॥

दिक्पालकाश्च तव पीठककोणदेशे श्रीचक्रमन्दिरनवावरणेषु देवाः । स्थित्वा च मङ्गलपुरश्चरणं पठन्ति श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २८॥

इत्थं सरस्वति! कृतं चिनवेङ्कनेन वेदान्तमन्त्रजपपाठविधानपूर्वम् । पारायणेन च पवित्रचरित्रगानं पुण्यावहं सकलमङ्गलसुप्रभातम्! ॥ २९॥

Thanks to Sapna Sandhu for lyrics.

MP3

Rendition by Partha Sarathy and Sri Nidhi(Album: Saraswathi Prarthana)

Written with StackEdit.

Google Drive Link

My Meditations

My Meditations

Praṇāma

I am a mathematician by hobby. I created this site/blog to pen down the philosophical and spiritual ideas/concepts/thoughts that go through my mind.

I will also use this site as a repository to store the spiritual and religious music I listen.

You can contact me by sending an email to coveringspace@gmail.com